अमरकोशः


श्लोकः

विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् । विश्रावस्तु प्रविख्यातिरवेक्षा प्रतिजागरः ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विप्रलम्भ विप्रलम्भः पुंलिङ्गः विप्रलब्धिः घञ् कृत् अकारान्तः
2 विप्रयोग विप्रयोगः पुंलिङ्गः विप्रयोजनम् घञ् कृत् अकारान्तः
3 विलम्भ विलम्भः पुंलिङ्गः विलब्धिः घञ् कृत् अकारान्तः
4 अतिसर्जन अतिसर्जनम् नपुंसकलिङ्गः विश्रवणम् ल्युट् कृत् अकारान्तः
5 विश्राव विश्रावः पुंलिङ्गः विश्रवणम् घञ् कृत् अकारान्तः
6 प्रविख्याति प्रविख्यातिः स्त्रीलिङ्गः प्रविख्यानम् क्तिन् कृत् इकारान्तः
7 अवेक्षा अवेक्षा स्त्रीलिङ्गः अवेक्षणम् कृत् आकारान्तः
8 प्रतिजागर प्रतिजागरः पुंलिङ्गः प्रतिजागरणम् घञ् कृत् अकारान्तः