अमरकोशः


श्लोकः

प्रतिबन्धः प्रतिष्टम्भोऽवनायस्तु निपातनम् । उपलम्भस्त्वनुभवः समालम्भो विलेपनम् ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रतिबन्ध प्रतिबन्धः पुंलिङ्गः प्रतिबन्धनम् घञ् कृत् अकारान्तः
2 प्रतिष्टम्भ प्रतिष्टम्भः पुंलिङ्गः प्रतिष्टम्भनम् घञ् कृत् अकारान्तः
3 अवनाय अवनायः पुंलिङ्गः अवनयनम् घञ् कृत् अकारान्तः
4 निपातन निपातनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 उपलम्भ उपलम्भः पुंलिङ्गः उपलम्भनम् घञ् कृत् अकारान्तः
6 अनुभव अनुभवः पुंलिङ्गः अनुभवनम् अप् कृत् अकारान्तः
7 समालम्भ समालम्भः पुंलिङ्गः समालम्भनम् घञ् कृत् अकारान्तः
8 विलेपन विलेपनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः