अमरकोशः


श्लोकः

प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रम: । स्यादभ्यादानमुद्धात आरम्भः संभ्रमस्त्वरा ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रत्युत्क्रम प्रत्युत्क्रमः पुंलिङ्गः प्रत्युत्क्रमणम् घञ् कृत् अकारान्तः
2 प्रयोगार्थ प्रयोगार्थः पुंलिङ्गः प्रयोजनम् घञ् कृत् अकारान्तः
3 प्रक्रम प्रक्रमः पुंलिङ्गः प्रक्रमणम् घञ् कृत् अकारान्तः
4 उपक्रम उपक्रमः पुंलिङ्गः उपक्रमणम् घञ् कृत् अकारान्तः
5 अभ्यादान अभ्यादानम् नपुंसकलिङ्गः आभिमुख्येनादानम् तत्पुरुषः समासः अकारान्तः
6 उध्दात उध्दातः पुंलिङ्गः उद्धननम् घञ् कृत् अकारान्तः
7 आरम्भ आरम्भः पुंलिङ्गः आरम्भणम् घञ् कृत् अकारान्तः
8 संभ्रम संभ्रमः पुंलिङ्गः संभ्रमणम् घञ् कृत् अकारान्तः
9 त्वरा त्वरा स्त्रीलिङ्गः त्वरणम् अङ् कृत् आकारान्तः