अमरकोशः


श्लोकः

प्रजनः स्यादुपसर: प्रश्रयप्रणयौ समौ । धीशक्तिर्निष्क्रमोऽस्त्री तु संक्रमो दुर्गसंचरः ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रजन प्रजनः पुंलिङ्गः प्रजननम् घञ् कृत् अकारान्तः
2 उपसर उपसरः पुंलिङ्गः उपसरणम् अप् कृत् अकारान्तः
3 प्रश्रय प्रश्रयः पुंलिङ्गः प्रश्रयणम् अच् कृत् अकारान्तः
4 प्रणय प्रणयः पुंलिङ्गः प्रणयनम् अच् कृत् अकारान्तः
5 धीशक्ति धीशक्तिः स्त्रीलिङ्गः धियःशक्तिः तत्पुरुषः समासः इकारान्तः
6 निष्क्रम निष्क्रमः पुंलिङ्गः, नपुंसकलिङ्गः निष्क्रमणम् घञ् कृत् अकारान्तः
7 संक्रम संक्रमः पुंलिङ्गः संक्रमणम् घञ् कृत् अकारान्तः
8 दुर्गसञ्चर दुर्गसञ्चरः पुंलिङ्गः दुर्गस्य संचरः तत्पुरुषः समासः अकारान्तः