अमरकोशः


श्लोकः

विमर्दनं परिमलेऽभ्युपपत्तिरनुग्रहः । निग्रहस्तु निरोधः स्यादभियोगस्त्वभिग्रहः ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विमर्दन विमर्दनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 परिमल परिमलः पुंलिङ्गः परिमलनम् घञ् कृत् अकारान्तः
3 अभ्युपपत्ति अभ्युपपत्तिः स्त्रीलिङ्गः अभ्युपपदनम् क्तिन् कृत् इकारान्तः
4 अनुग्रह अनुग्रहः पुंलिङ्गः अनुग्रहणम् अप् कृत् अकारान्तः
5 निग्रह निग्रहः पुंलिङ्गः निग्रहणम् अप् कृत् अकारान्तः
6 निरोध निरोधः पुंलिङ्गः निरोधनम् घञ् कृत् अकारान्तः
7 अभियोग अभियोगः पुंलिङ्गः अभियोजनम् घञ् कृत् अकारान्तः
8 अभिग्रह अभिग्रहः पुंलिङ्गः अभिग्रहणम् अप् कृत् अकारान्तः