अमरकोशः


श्लोकः

उन्नाय उन्नये श्रायः श्रयणे जयने जयः । निगादो निगदे मादो मदे उद्वेग उद्भ्रमे ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उन्नाय उन्नायः पुंलिङ्गः उन्नयनम् घञ् कृत् अकारान्तः
2 उन्नय उन्नयः पुंलिङ्गः अच् कृत् अकारान्तः
3 श्राय श्रायः पुंलिङ्गः श्रयणम् घञ् कृत् अकारान्तः
4 श्रयण श्रयणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 जयन जयनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 जय जयः पुंलिङ्गः अच् कृत् अकारान्तः
7 निगाद निगादः पुंलिङ्गः निगदनम् घञ् कृत् अकारान्तः
8 निगद निगदः पुंलिङ्गः अप् कृत् अकारान्तः
9 माद मादः पुंलिङ्गः मदनम् घञ् कृत् अकारान्तः
10 मद मदः पुंलिङ्गः अप् कृत् अकारान्तः
11 उद्वेग उद्वेगः पुंलिङ्गः उद्वेजनम् घञ् कृत् अकारान्तः
12 उद्भ्रम उद्भ्रमः पुंलिङ्गः उद्भ्रमणम् घञ् कृत् अकारान्तः