अमरकोशः


श्लोकः

अपहारस्त्वपचयः समाहारः समुच्चयः । प्रत्याहार उपादानं विहारस्तु परिक्रमः ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अपहार अपहारः पुंलिङ्गः अपहरणम् घञ् कृत् अकारान्तः
2 अपचय अपचयः पुंलिङ्गः अपचयनम् अच् कृत् अकारान्तः
3 समाहार समाहारः पुंलिङ्गः समाहरणम् घञ् कृत् अकारान्तः
4 समुच्चय समुच्चयः पुंलिङ्गः समुच्चयनम् अच् कृत् अकारान्तः
5 प्रत्याहार प्रत्याहारः पुंलिङ्गः प्रत्याहरणम् घञ् कृत् अकारान्तः
6 उपादान उपादानम् नपुंसकलिङ्गः घञ् कृत् अकारान्तः
7 विहार विहारः पुंलिङ्गः विहरणम् घञ् कृत् अकारान्तः
8 परिक्रम परिक्रमः पुंलिङ्गः परिक्रमणम् घञ् कृत् अकारान्तः