अमरकोशः


श्लोकः

अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः । अनायासकृतं फाण्टं स्वनितं ध्वनितं समे ॥ ९४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अवरीण अवरीणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अव रीयते स्म क्त कृत् अकारान्तः
2 धिक्कृत धिक्कृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः धिगकारि क्त कृत् अकारान्तः
3 अवध्वस्त अवध्वस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवध्वस्यते स्म क्त कृत् अकारान्तः
4 अवचूर्णित अवचूर्णितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवचूर्ण्यते स्म क्त कृत् अकारान्तः
5 अनायासकृत अनायासकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तत्पुरुषः समासः अकारान्तः
6 फाण्ट फाण्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः फण्यते स्म क्त कृत् अकारान्तः
7 स्वनित स्वनितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्वन्यते स्म क्त कृत् अकारान्तः
8 ध्वनित ध्वनितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ध्वन्यते स्म क्त कृत् अकारान्तः