अमरकोशः


श्लोकः

उच्चावचं नैकभेदमुच्चण्डमविलम्बितम् । अरुंतुदंतु मर्मस्पृगबाधं तु निरर्गलम् ॥ ८३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उच्चावच उच्चावचः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उदक् चावाक् च तत्पुरुषः समासः अकारान्तः
2 नैकभेद नैकभेदः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न एकभेदम् केवलसमासः समासः अकारान्तः
3 उच्चण्ड उच्चण्डः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उच्चण्डनम् घञ् कृत् अकारान्तः
4 अविलम्बित अविलम्बितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विलम्ब्यते स्म क्त कृत् अकारान्तः
5 अरुंतुद अरुंतुदः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अरूंषि तुदति खच् तद्धितः अकारान्तः
6 मर्मस्पृश् मर्मस्पृश् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मर्म स्पृशति क्विन् कृत् शकारान्तः
7 अबाध अबाधः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न बाधास्य बहुव्रीहिः समासः अकारान्तः
8 निरर्गल निरर्गलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निष्क्रान्तमर्गलायाः तत्पुरुषः समासः अकारान्तः