अमरकोशः


श्लोकः

अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमम् । मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ८१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अन्त अन्तः पुंलिङ्गः, नपुंसकलिङ्गः अमति तन् उणादिः अकारान्तः
2 जघन्य जघन्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जघने भवम् यत् तद्धितः अकारान्तः
3 चरम चरमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चरति अमच् उणादिः अकारान्तः
4 अन्त्य अन्त्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अन्ते भवम् यत् तद्धितः अकारान्तः
5 पाश्चात्य पाश्चात्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पश्चाद्धवम् त्यक् तद्धितः अकारान्तः
6 पश्चिम पश्चिमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः डिमच् तद्धितः अकारान्तः
7 मोघ मोघः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मुह्यन्त्यस्मिन् घञ् कृत् अकारान्तः
8 निरर्थक निरर्थकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निर्गतोऽर्थोऽस्मात् बहुव्रीहिः समासः अकारान्तः
9 स्पष्ट स्पष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्पाश्यते स्म क्त कृत् अकारान्तः
10 स्फुट स्फुटः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्फुटति कृत् अकारान्तः
11 प्रव्यक्त प्रव्यक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रव्यज्यते स्म क्त कृत् अकारान्तः
12 उल्वण उल्वणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्गणति अच् कृत् अकारान्तः