अमरकोशः


श्लोकः

अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि च । पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्याः अथास्त्रियाम् ॥ ८० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 एकसर्ग एकसर्गः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एक एकस्मिन् वा सर्गो निश्चयोऽस्य बहुव्रीहिः समासः अकारान्तः
2 एकाग्र्य एकाग्र्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एकमग्र्यं ज्ञेयमस्य बहुव्रीहिः समासः अकारान्तः
3 एकायनगत एकायनगतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एकं च तदयनं च एकायनं गतः तत्पुरुषः समासः अकारान्तः
4 आदि आदिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आ प्रथमं दीयते गृह्यते कि कृत् इकारान्तः
5 पूर्व पूर्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पूर्वति अच् कृत् अकारान्तः
6 पौरस्त्य पौरस्त्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पुरो भवः त्यक् उणादिः अकारान्तः
7 प्रथम प्रथमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रथते अमच् उणादिः अकारान्तः
8 आद्य आद्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आदौ भवः यत् तद्धितः अकारान्तः