अमरकोशः


श्लोकः

संकटं ना तु संबाधः कलिलं गहनं समे । संकीर्णं सङ्कुलाकीर्णे मुण्डितं परिवापितम् ॥ ८५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संकट संकटः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संकटति अच् कृत् अकारान्तः
2 संबाध संबाधः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सम्यग् बाधन्तेऽत्र घञ् कृत् अकारान्तः
3 कलिल कलिलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कलते, कल्यते, वा इलच् उणादिः अकारान्तः
4 गहन गहनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गाह्यते युच् कृत् अकारान्तः
5 संकीर्ण संकीर्णः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संकीर्यते स्म क्त कृत् अकारान्तः
6 संकुल संकुलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संकोलति कृत् अकारान्तः
7 अकीर्ण अकीर्णः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आकीर्यते स्म क्त कृत् अकारान्तः
8 मुण्डित मुण्डितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मुण्ड्यते स्म क्त कृत् अकारान्तः
9 परिवापित परिवापितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परिवाप्यते स्म क्त कृत् अकारान्तः