अमरकोशः


श्लोकः

प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च । वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणे ॥ ८४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रसव्य प्रसव्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रगतं सव्यात् तत्पुरुषः समासः अकारान्तः
2 प्रतिकूल प्रतिकूलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रतीपं कूलात् तत्पुरुषः समासः अकारान्तः
3 अपसव्य अपसव्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अपगतं सव्यात् तत्पुरुषः समासः अकारान्तः
4 अपष्ठु अपष्ठुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अपतिष्ठति कु उणादिः उकारान्तः
5 सव्य सव्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सूयते यत् कृत् अकारान्तः
6 अपसव्य अपसव्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अपक्रान्तं सव्यात् तत्पुरुषः समासः अकारान्तः