अमरकोशः


श्लोकः

स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः । कालव्यापी स कूटस्थ: स्थावरो जङ्गमेतरः ॥ ७३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्थास्नु स्थास्नुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्थानशीलः ग्स्नुः कृत् उकारान्तः
2 स्थिरतर स्थिरतरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन स्थिरः तरप् तद्धितः अकारान्तः
3 स्थेयस् स्थेयस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन स्थिरः ईयसुन् तद्धितः सकारान्तः
4 कुटस्थ कुटस्थः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कूटवत् तिष्ठति कृत् अकारान्तः
5 स्थावर स्थावरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्थानशीलः वरच् कृत् अकारान्तः
6 जङ्गमेतर जङ्गमेतरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जङ्गमादितरः तत्पुरुषः समासः अकारान्तः