अमरकोशः


श्लोकः

ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ । शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ॥ ७२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऋजु ऋजुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अर्जति कु उणादिः उकारान्तः
2 अजिह्म अजिह्मः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भिन्नो जिह्यात् तत्पुरुषः समासः अकारान्तः
3 प्रगुण प्रगुणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रकृष्टा गुणा यस्य बहुव्रीहिः समासः अकारान्तः
4 व्यस्त व्यस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्यस्यते स्म क्त कृत् अकारान्तः
5 अप्रगुण अप्रगुणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भिन्नः प्रगुणात् तत्पुरुषः समासः अकारान्तः
6 आकुल आकुलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृत् अकारान्तः
7 शाश्वत शाश्वतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शश्वद्भवः अण् तद्धितः अकारान्तः
8 ध्रुव ध्रुवः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ध्रुवति कृत् अकारान्तः
9 नित्य नित्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नियतं भवः त्यप् तद्धितः अकारान्तः
10 सदातन सदातनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सदा भवः ट्युट्युलौ तद्धितः अकारान्तः
11 सनातन सनातनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सना भवः ट्युट्युलौ तद्धितः अकारान्तः