अमरकोशः


श्लोकः

परीक्षक: कारणिको वरदस्तु समर्धकः । हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 परीक्षक परीक्षकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परीक्ष्यते । ण्वुल् कृत् अकारान्तः
2 कारणिक कारणिकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः करणैश्चरति । ठक् तद्धितः अकारान्तः
3 वरद वरदः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वरं ददाति । तत्पुरुषः समासः अकारान्तः
4 समर्धक समर्धकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समृध्नोति । ण्वुल् कृत् अकारान्तः
5 हर्षमाण हर्षमाणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हर्षति । चानश् कृत् अकारान्तः
6 विकुर्वाण विकुर्वाणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विकुरुते । चानश् कृत् अकारान्तः
7 प्रमनस् प्रमनस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रकृष्टं मनो यस्य ॥ बहुव्रीहिः समासः सकारान्तः
8 हृष्टमानस हृष्टमानसः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हृष्टं मानसमस्य ॥ बहुव्रीहिः समासः अकारान्तः