अमरकोशः


श्लोकः

स्त्रियां मात्रा त्रुटी पुंसि लवलेशकणाणवः । अत्यल्पेऽल्पिष्ठमल्पीय: कनीयोऽणीय इत्यपि ॥ ६२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मात्रा मात्रा स्त्रीलिङ्गः मीयते ष्ट्रन् उणादिः आकारान्तः
2 त्रुटि त्रुटिः स्त्रीलिङ्गः त्रुट्यते इन् उणादिः इकारान्तः
3 लव लवः पुंलिङ्गः लूयते अप् कृत् अकारान्तः
4 लेश लेशः पुंलिङ्गः लिशति अच् कृत् अकारान्तः
5 कण कणः पुंलिङ्गः कणति अच् कृत् अकारान्तः
6 अणु अणुः पुंलिङ्गः अणति, अण्यते, वा उणादिः उकारान्तः
7 अत्यल्प अत्यल्पः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेनाल्पः तत्पुरुषः समासः अकारान्तः
8 अल्पिष्ठ अल्पिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेनाल्पः इष्ठन् तद्धितः अकारान्तः
9 अल्पीयस् अल्पीयस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेनाल्पः ईयसुन् तद्धितः सकारान्तः
10 कनीयस् कनीयस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ईयसुन् तद्धितः सकारान्तः
11 अणीयस् अणीयस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेनाणुः ईयसुन् तद्धितः सकारान्तः