अमरकोशः


श्लोकः

स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे । जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वदान्य वदान्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ‘मां याचस्व’ इति वदति । आन्य उणादिः अकारान्तः
2 स्थूललक्ष्य स्थूललक्ष्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्थूलं कूटं लक्ष्यमस्य । बहुव्रीहिः समासः अकारान्तः
3 दानशौण्ड दानशौण्डः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दाने शौण्डः । तत्पुरुषः समासः अकारान्तः
4 बहुप्रद बहुप्रदः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बहु प्रददाति । तत्पुरुषः समासः अकारान्तः
5 जैवातृक जैवातृकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जीवति । आतृकन् उणादिः अकारान्तः
6 आयुष्मत् आयुष्मत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयितमायुरस्य । मतुप् तद्धितः तकारान्तः
7 अन्तर्वेणी अन्तर्वेणी पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अन्तर्वाण्यस्य । बहुव्रीहिः समासः ईकारान्तः
8 शास्त्रविद् शास्त्रविद् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शास्त्रं वेत्ति । तत्पुरुषः समासः दकारान्तः