अमरकोशः


श्लोकः

दवीयश्च दविष्ठं च सुदूरे दीर्घमायतम् । वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम् ॥ ६९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दवीयस् दवीयस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अत्यन्तं दूरम् ईयसुन् तद्धितः सकारान्तः
2 दविष्ठ दविष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इष्ठन् तद्धितः अकारान्तः
3 सुदूर सुदूरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सु अत्यन्तं दूरम् तत्पुरुषः समासः अकारान्तः
4 दीर्घ दीर्घः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दृणाति अकारान्तः
5 आयत आयतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आयम्यते स्म क्त कृत् अकारान्तः
6 वर्तुल वर्तुलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वर्तते उलच् उणादिः अकारान्तः
7 निस्तल निस्तलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निर्गतं तलमस्य बहुव्रीहिः समासः अकारान्तः
8 वृत्त वृत्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वर्तते स्म क्त कृत् अकारान्तः
9 बन्धुर बन्धुरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बध्नाति उरच् उणादिः अकारान्तः
10 उन्नतानत उन्नतानतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उन्नतं च तदानतं च तत्पुरुषः समासः अकारान्तः