अमरकोशः


श्लोकः

संसक्ते त्वव्यवहितमपटान्तरमित्यपि । नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम् ॥ ६८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संसक्त संसक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समिति संसज्यते स्म क्त कृत् अकारान्तः
2 अव्यवहित अव्यवहितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न व्यवधीयते स्म क्त कृत् अकारान्तः
3 अपटान्तर अपटान्तरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न पटान्तरमत्र बहुव्रीहिः समासः अकारान्तः
4 नेदिष्ठ नेदिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेनान्तिकम् इष्ठन् तद्धितः अकारान्तः
5 अन्तिकतम अन्तिकतमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तमप् तद्धितः अकारान्तः
6 दूर दूरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दुःखेनेयते रक् उणादिः अकारान्तः
7 विप्रकृष्टक विप्रकृष्टकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विप्रकृष्यते स्म क्त कृत् अकारान्तः