अमरकोशः


श्लोकः

सदेशाभ्याशसविधसमर्यादसवेशवत् । उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितो व्ययम् ॥ ६७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सदेश सदेशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समानो देशोऽस्य बहुव्रीहिः समासः अकारान्तः
2 अभ्याश अभ्याशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभ्यश्यते घञ् कृत् अकारान्तः
3 सविध सविधः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समाना विधास्य बहुव्रीहिः समासः अकारान्तः
4 समर्याद समर्यादः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समाना मर्यादास्य बहुव्रीहिः समासः अकारान्तः
5 सवेश सवेशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समानो वेशोस्य बहुव्रीहिः समासः अकारान्तः
6 उपकण्ठ उपकण्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उपगतः कण्ठम् तत्पुरुषः समासः अकारान्तः
7 अन्तिक अन्तिकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अन्तोऽस्यास्ति ठन् तद्धितः अकारान्तः
8 अभ्यर्ण अभ्यर्णः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभ्यर्द्यते स्म क्त कृत् अकारान्तः
9 अभ्यग्र अभ्यग्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभिमुखमग्रमस्य बहुव्रीहिः समासः अकारान्तः
10 अभितस् अभितस् अव्ययम् तसिल् तद्धितः सकारान्तः