अमरकोशः


श्लोकः

तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् । अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 असेचनक असेचनकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न सिच्यते मनोऽत्र तत्पुरुषः समासः अकारान्तः
2 अभीष्ट अभीष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभित इष्यते स्म क्तः कृत् अकारान्तः
3 अभीप्सित अभीप्सितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभ्याप्तुमिष्यते स्म क्तः कृत् अकारान्तः
4 हृद्य हृद्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हृदयस्य प्रियम् यत् तद्धितः अकारान्तः
5 दयित दयितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दय्यते क्तः कृत् अकारान्तः
6 वल्लभ वल्लभः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वल्ल्यते, वल्लते च अभच् उणादिः अकारान्तः
7 प्रिय प्रियः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रीणाति कृत् अकारान्तः