अमरकोशः


श्लोकः

स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः । उद्भिदस्तरुगुल्माद्या: उद्भिदुद्भिज्जमुद्भिदम् ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्वेदज स्वेदजः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्वेदाज्जाताः तत्पुरुषः समासः अकारान्तः
2 अण्डज अण्डजः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अण्डे जाताः तत्पुरुषः समासः अकारान्तः
3 उद्भिद् उद्भिद् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भुवमुद्भिन्दन्ति तत्पुरुषः समासः दकारान्तः
4 उद्भिद् उद्भिद् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भुवमुद्भिन्दन्ति तत्पुरुषः समासः दकारान्तः
5 उद्भिज्ज उद्भिज्जः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्भिदो जातम् तत्पुरुषः समासः अकारान्तः
6 उद्भिद उद्भिदः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्भिनत्ति कृत् अकारान्तः