अमरकोशः


श्लोकः

अहंकारवानहंयुः शुभंयुस्तु शुभान्वितः । दिव्योपपादुका देवा नृगवाद्या जरायुजाः ॥ ५० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अहङ्कारवत् अहङ्कारवत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अहंकारोऽस्यास्ति मतुप् तद्धितः तकारान्तः
2 अहंयु अहंयुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अहमस्यास्ति युस् तद्धितः उकारान्तः
3 शुभंयु शुभंयुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शुभमस्ति युस् तद्धितः उकारान्तः
4 शुभान्वित शुभान्वितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शुभेनान्वितः तत्पुरुषः समासः अकारान्तः
5 दिव्योपपादुक दिव्योपपादुकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दिवि भवाः, उपपद्यन्ते, ते च ते च तत्पुरुषः समासः अकारान्तः
6 जरायुज जरायुजः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जरायोर्गर्भाशयाज्जाताः तत्पुरुषः समासः अकारान्तः