अमरकोशः


श्लोकः

परार्ध्याग्रप्राग्रहरप्राग्र्यग्रीयमग्रियम् । श्रेयाञ्श्रेष्ठः पुष्कल: स्यात्सत्तमश्चातिशोभने ॥ ५८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 परार्ध्य परार्ध्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परस्मिन्नर्धे भवः यत् तद्धितः अकारान्तः
2 अग्र अग्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अगति रक् उणादिः अकारान्तः
3 प्राग्रहर प्राग्रहरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रकृष्टमग्रम्। प्राग्रे हरति अच् कृत् अकारान्तः
4 प्राग्र्य प्राग्र्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्राग्रे भवः यत् तद्धितः अकारान्तः
5 अग्र्य अग्र्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अग्रे भवः यत् तद्धितः अकारान्तः
6 अग्रीय अग्रीयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अग्रे भवः तद्धितः अकारान्तः
7 अग्रिय अग्रियः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अग्रे भवः तद्धितः अकारान्तः
8 श्रेयस् श्रेयस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन प्रशस्यः ईयसुन् तद्धितः सकारान्तः
9 श्रेष्ठ श्रेष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन प्रशस्यः इष्ठन् तद्धितः अकारान्तः
10 पुष्कल पुष्कलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पुष्यति कल उणादिः अकारान्तः
11 सत्तम सत्तमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन सन् तमप् तद्धितः अकारान्तः
12 अतिशोभन अतिशोभनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन शोभनः तत्पुरुषः समासः अकारान्तः