अमरकोशः


श्लोकः

क्लीबे प्रधानं प्रमुखं प्रवेकानुत्तमोत्तमाः । मुख्यवर्यवरेण्याश्च प्रवर्हानवरार्ध्यवत् ॥ ५७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रधान प्रधानम् नपुंसकलिङ्गः प्रदधाति ल्युट् कृत् अकारान्तः
2 प्रमुख प्रमुखः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रकृष्टं मुखमस्य बहुव्रीहिः समासः अकारान्तः
3 प्रवेक प्रवेकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रविच्यते घञ् कृत् अकारान्तः
4 अनुत्तम अनुत्तमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नोत्तमोऽस्मात् बहुव्रीहिः समासः अकारान्तः
5 उत्तम उत्तमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेनोत्कृष्टः तमप् तद्धितः अकारान्तः
6 मुख्य मुख्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मुखमिव तद्धितः अकारान्तः
7 वर्य वर्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वर्यते यत् कृत् अकारान्तः
8 वरेण्य वरेण्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्रियते एण्य उणादिः अकारान्तः
9 प्रवर्ह प्रवर्हः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रवर्हति अच् कृत् अकारान्तः
10 अनवरार्ध्य अनवरार्ध्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवरस्मिन्नर्धे भवः यत् तद्धितः अकारान्तः