अमरकोशः


श्लोकः

निर्णिक्तं शोधितं मृष्टं नि:शोध्यमनवस्करम् । असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके ॥ ५६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निर्णिक्त निर्णिक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निर्णिज्यते स्म क्तः कृत् अकारान्तः
2 शोधित शोधितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शोध्यते स्म क्तः कृत् अकारान्तः
3 मृष्ट मृष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मृज्यते स्म क्तः कृत् अकारान्तः
4 नि:शोध्य नि:शोध्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निष्क्रान्तं शोध्यमस्मात् तत्पुरुषः समासः अकारान्तः
5 अनवस्कर अनवस्करः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नावस्करोऽत्र बहुव्रीहिः समासः अकारान्तः
6 असार असारः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न सारोऽत्र बहुव्रीहिः समासः अकारान्तः
7 फल्गु फल्गुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः फलति गु उणादिः उकारान्तः
8 शून्य शून्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शुने हितम् यत् निपातनात् अकारान्तः
9 वशिक वशिकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उश्यते इन् उणादिः अकारान्तः
10 तुच्छ तुच्छः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तोदनम् क्विप् कृत् अकारान्तः
11 रिक्तक रिक्तकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रिच्यते स्म क्तः कृत् अकारान्तः