अमरकोशः


श्लोकः

मलीमसं तु मलिनं कच्चरं मलदूषितम् । पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् ॥ ५५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मलीमस मलीमसः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मलोऽस्यास्ति निपातनात् अकारान्तः
2 मलिन मलिनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मलोऽस्यास्ति निपातनात् अकारान्तः
3 कच्चर कच्चरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कुत्सितं चरति अच् कृत् अकारान्तः
4 मलदूषित मलदूषितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मलेन दूषितम् तत्पुरुषः समासः अकारान्तः
5 पूत पूतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पूयते स्म क्त कृत् अकारान्तः
6 पवित्र पवित्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पुनाति इत्र कृत् अकारान्तः
7 मेध्य मेध्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मेधनार्हम् ण्यत् कृत् अकारान्तः
8 वीध्र वीध्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वीन्धे क्रन् उणादिः अकारान्तः
9 विमलात्मक विमलात्मकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विमल आत्मा स्वभावो यस्य बहुव्रीहिः समासः अकारान्तः