अमरकोशः


श्लोकः

निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः । कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः ॥ ५४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निकृष्ट निकृष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निकृष्यते स्म क्तः कृत् अकारान्तः
2 प्रतिकृष्ट प्रतिकृष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रतिकृश्यते स्म क्त कृत् अकारान्तः
3 अर्वन् अर्वन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ऋच्छति वनिप् कृत् नकारान्तः
4 रेफ रेफः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रिफ्यते घञ् कृत् अकारान्तः
5 याप्य याप्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः याप्यते यत् कृत् अकारान्तः
6 अवम अवमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवत्यस्मादात्मानम् अम उणादिः अकारान्तः
7 अधम अधमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवत्यस्मादात्मानम् अम उणादिः अकारान्तः
8 कुपूय कुपूयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कुत्सितं पूयते अच् कृत् अकारान्तः
9 कुत्सित कुत्सितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कुत्सा सञ्चातास्य इतच् तद्धितः अकारान्तः
10 अवद्य अवद्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न उद्यते अम उणादिः अकारान्तः
11 खेट खेटः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः खेटति अच् कृत् अकारान्तः
12 गर्ह्य गर्ह्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गर्ह्यते ण्यत् कृत् अकारान्तः
13 अणक अणकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अच् कन् तद्धितः अकारान्तः