पूज्य: प्रतीक्ष्य: सांशयिक: संशयापन्नमानसः । दक्षिणेयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ॥ ५ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | पूज्य | पूज्यः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | पूज्यते । | यत् | कृत् | अकारान्तः |
2 | प्रतीक्ष्य | प्रतीक्ष्यः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | प्रतीक्ष्यते । | ण्यत् | कृत् | अकारान्तः |
3 | सांशयिक | सांशयिकः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | संशयमापन्नः । | ठक् | तद्धितः | अकारान्तः |
4 | संशयापन्नः | संशयापन्नः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | संशयमापन्नं यस्य, यस्मिन्, वा ॥ | तत्पुरुषः | समासः | |
5 | दक्षिणीयः | दक्षिणीयः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | दक्षिणामर्हति । | छ | तद्धितः | |
6 | दक्षिणार्ह | दक्षिणार्हः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | दक्षिणामर्हति । | तत्पुरुषः | समासः | अकारान्तः |
7 | दक्षिण्य | दक्षिण्यः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | दक्षिणामर्हति । | यत् | तद्धितः | अकारान्तः |