अमरकोशः


श्लोकः

आत्तगर्वोऽभिभूतः स्याद् दापितः साधित: समौ । प्रत्यादिष्टो निरस्त: स्यात्प्रत्याख्यातो निराकृतः ॥ ४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आत्तगर्व आत्तगर्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आत्तो गर्वो यस्य बहुव्रीहिः समासः अकारान्तः
2 अभिभूत अभिभूतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभिभूयते स्म क्तः कृत् अकारान्तः
3 दापित दापितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दाप्यते स्म क्तः कृत् अकारान्तः
4 साधित साधितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः साध्यते स्म क्तः कृत् अकारान्तः
5 प्रत्यादिष्ट प्रत्यादिष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रत्यादिश्यते स्म क्तः कृत् अकारान्तः
6 निरस्त निरस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निरस्यते स्म क्तः कृत् अकारान्तः
7 प्रत्याख्यात प्रत्याख्यातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रत्याख्यायते स्म क्तः कृत् अकारान्तः
8 निराकृत निराकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निराकारि क्तः कृत् अकारान्तः