अमरकोशः


श्लोकः

अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः । कदर्ये कृपणक्षुद्रकिंपचानमितंपचा: ॥ ४८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अज्ञ अज्ञः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न जानाति कृत् अकारान्तः
2 मूढ मूढः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मुह्यति स्म क्त कृत् अकारान्तः
3 यथाजात यथाजातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जातं जन्मकालविशेषमनतिक्रम्य वर्तते अच् तद्धितः अकारान्तः
4 मूर्ख मूर्खः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मुह्यति खः उणादिः अकारान्तः
5 वैधेय वैधेयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विधेयं विधानम्। तस्यायमधिकारी अण् तद्धितः अकारान्तः
6 बालिश बालिशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बलिशस्य मत्स्यवेधनस्यायम् अण् तद्धितः अकारान्तः
7 कदर्य कदर्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कुत्सितोऽर्यः स्वामी समासः तद्धितः अकारान्तः
8 कृपण कृपणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृपां करोति ल्युट् कृत् अकारान्तः
9 क्षुद्र क्षुद्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्षुणत्ति रक् उणादिः अकारान्तः
10 किंपचान किंपचानः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः किं पचति चानश् कृत् अकारान्तः
11 मितंपच मितंपचः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मितं पचति खच् कृत् अकारान्तः