अमरकोशः


श्लोकः

शिश्विदानोऽकृष्णकर्मा चपलश्चिकुर: समौ । दोषैकदृक् पुरोभागी निकृतस्त्वनृजुः शठः ॥ ४६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शिश्विदान शिश्विदानः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शिश्विन्दे कानच् कृत् अकारान्तः
2 अकृष्णकर्मन् अकृष्णकर्मन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अकृष्णं शुक्लं कर्मास्य बहुव्रीहिः समासः नकारान्तः
3 चपल चपलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चपति कलच् उणादिः अकारान्तः
4 चिकुर चिकुरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चि’ इति अव्यक्तं कुरति कृत् अकारान्तः
5 दोषैकदृश् दोषैकदृश् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दोषे एकस्मिन् दृक् ज्ञानं यस्य बहुव्रीहिः समासः शकारान्तः
6 पुरोभागिन् पुरोभागिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पुरः पूर्वं भजते घिनुण् समासः नकारान्तः
7 निकृत निकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निकृन्तति कृत् अकारान्तः
8 अनृजु अनृजुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ऋजुविरुद्धः तत्पुरुषः समासः उकारान्तः
9 शठ शठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शठति अच् कृत् अकारान्तः