अमरकोशः


श्लोकः

द्वेष्ये त्वक्षिगतो वध्य: शीर्षच्छेद्य इमौ समौ । विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः ॥ ४५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्वेष्य द्वेष्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः द्वेष्टुमर्हः ण्यत् कृत् अकारान्तः
2 अक्षिगत अक्षिगतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अक्षिविषयं गतः तत्पुरुषः समासः अकारान्तः
3 वध्य वध्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वधमर्हति स्म यः तद्धितः अकारान्तः
4 शीर्षच्छेद्य शीर्षच्छेद्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शिरसश्छेदः। तमर्हति यत् तद्धितः अकारान्तः
5 विष्य विष्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विषेण वध्यः यत् तद्धितः अकारान्तः
6 मुसल्य मुसल्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मुसलेन वध्यः तद्धितः अकारान्तः