अमरकोशः


श्लोकः

प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः । वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रवीण प्रवीणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रकृष्टा वीणास्य । बहुव्रीहिः समासः अकारान्तः
2 निपुण निपुणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निपुणति । कृत् अकारान्तः
3 अभिज्ञ अभिज्ञः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभि जानाति । कृत् अकारान्तः
4 विज्ञ विज्ञः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वि जानाति । कृत् अकारान्तः
5 निष्णात निष्णातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न्यस्नासीत् । क्त कृत् अकारान्तः
6 शिक्षित शिक्षितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शिक्षा जातास्य । इतच् तद्धितः अकारान्तः
7 वैज्ञानिक वैज्ञानिकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विज्ञाने नियुक्तः । ठक् तद्धितः अकारान्तः
8 कृतमुख कृतमुखः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृतं मुखमस्य । बहुव्रीहिः समासः अकारान्तः
9 कृतिन् कृतिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृतं कर्म प्रशस्तमस्। इनि तद्धितः नकारान्तः
10 कुशल कुशलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कुशान् लाति । कृत् अकारान्तः