अमरकोशः


श्लोकः

स्वप्नक् शयालुर्निद्रालुः निद्राणशयितौ समौ । पराङ्मुखः पराचीन: स्यादवाङप्यधोमुखः ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्वप्नज् स्वप्नज् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्वपनशीलः । नजिड् कृत् जकारान्तः
2 शयालु शयालुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शयनशीलः आलुच् कृत् उकारान्तः
3 निद्रालु निद्रालुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निद्राशीलः । आलुच् कृत् उकारान्तः
4 निद्राण निद्राणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निद्राति स्म । क्त कृत् अकारान्तः
5 शयित शयितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शेते स्म । क्त कृत् अकारान्तः
6 पराङ्मुख पराङ्मुखः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परञ्चत्यनभिमुखो भवति । क्विन् कृत् अकारान्तः
7 पराचीन पराचीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्विन् कृत् अकारान्तः
8 अवाक् अवाक् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवाञ्चत्यधोमुखो भवति । क्विन् कृत् ककारान्तः
9 अधोमुख अधोमुखः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अधो मुखं यस्य ॥ बहुव्रीहिः कृत् अकारान्तः