सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः । हृदयालुः सुहृदयः महोत्साहो महोद्यमः ॥ ३ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | सुकृतिन् | सुकृतिन् | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | सुकृतमस्यास्ति । | इनि | तद्धितः | नकारान्तः |
2 | पुण्यवत् | पुण्यवत् | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | पुण्यमस्यास्ति । | मतुप् | तद्धितः | तकारान्तः |
3 | धन्य | धन्यः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | धनं लब्धा । | यत् | तद्धितः | अकारान्तः |
3 | महेच्छ | महेच्छः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | महतीच्छा यस्य ॥ | बहुव्रीहिः | समासः | अकारान्तः |
4 | महाशय | महाशयः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | महानाशयोऽस्य ॥ | बहुव्रीहिः | समासः | अकारान्तः |
5 | हृदयालु | हृदयालुः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | प्रशस्तं हृदयमस्य । | आलुच् | तद्धितः | उकारान्तः |
6 | सुहृदय | सुहृदयः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | शोभनं हृदयमस्य । | बहुव्रीहिः | समासः | अकारान्तः |
7 | महोत्साह | महोत्साहः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | महानुत्साहोऽस्य ॥ | बहुव्रीहिः | समासः | अकारान्तः |
8 | महोद्यम | महोद्यमः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | महानुद्यमोऽस्य ॥ | बहुव्रीहिः | समासः | अकारान्तः |