अमरकोशः


श्लोकः

रवण: शब्दनो नान्दीवादी नान्दीकरः समौ । जडोऽज्ञे एडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रवण रवणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रवणशीलः । युच् कृत् अकारान्तः
2 शब्दन शब्दनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शब्दनशीलः । युच् कृत् अकारान्तः
3 नान्दीवादिन् नान्दीवादिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नान्दीवदनशीलः । णिनि कृत् नकारान्तः
4 नान्दीकर नान्दीकरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नान्दीं करोति वदति कृत् अकारान्तः
5 जड जडः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जलति । अच् कृत् अकारान्तः
6 अज्ञ अज्ञः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न जानाति । कृत् अकारान्तः
7 एडमूक एडमूकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एडो बधिरश्चासौ मूकश्च । तत्पुरुषः समासः अकारान्तः