अमरकोशः


श्लोकः

लोहलः स्यादस्फुटवाग् गर्ह्यवादी तु कद्वदः । समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः ॥ ३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लोहल लोहलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लोहं लाति । घञ् कृत् अकारान्तः
2 अस्फुटवाच् अस्फुटवाच् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न स्फुटा वागस्य ॥ बहुव्रीहिः समासः चकारान्तः
3 गर्ह्यवादिन् गर्ह्यवादिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गर्ह्यं वदति । णिनि कृत् नकारान्तः
4 कद्वद कद्वदः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कुत्सितं वदति । तत्पुरुषः समासः अकारान्तः
5 कुवाद कुवादः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कुत्सितो वादोऽस्य ॥ तत्पुरुषः समासः अकारान्तः
6 कुचर कुचरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कुत्सितं चरति । तत्पुरुषः समासः अकारान्तः
7 असौम्यस्वर असौम्यस्वरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः असौम्यो रूक्षः स्वरो यस्य ॥ बहुव्रीहिः समासः अकारान्तः
8 अस्वर अस्वरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अप्रशस्तः स्वरो यस्य ॥ बहुव्रीहिः समासः अकारान्तः