अमरकोशः


श्लोकः

स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् । दुर्मुखे मुखराबद्धमुखौ शक्ल: प्रियंवदे ॥ ३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जल्पाक जल्पाकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जल्पति । षाकन् कृत् अकारान्तः
2 वाचाल वाचालः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बहुगर्ह्या वागस्य । आलच् तद्धितः अकारान्तः
3 वाचाट वाचाटः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बहुगर्ह्या वागस्य । आटच् तद्धितः अकारान्तः
4 बहुगर्ह्यवाच् बहुगर्ह्यवाच् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बहुगर्ह्या वागस्य । बहुव्रीहिः समासः चकारान्तः
5 दुर्मुख दुर्मुखः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दुर्निन्दितं मुखमस्य । तत्पुरुषः समासः अकारान्तः
6 मुखर मुखरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निन्दितं मुखमस्य । तद्धितः अकारान्तः
7 अबध्दमुख अबध्दमुखः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न बद्धं नियमितं मुखमस्य ॥ बहुव्रीहिः समासः अकारान्तः
8 शक्ल शक्लः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शक्नोति । क्ल उणादिः अकारान्तः
9 प्रियंवद प्रियंवदः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रियं वदति । बहुव्रीहिः समासः अकारान्तः