अमरकोशः


श्लोकः

सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः । हृदयालुः सुहृदयः महोत्साहो महोद्यमः ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सुकृतिन् सुकृतिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सुकृतमस्यास्ति । इनि तद्धितः नकारान्तः
2 पुण्यवत् पुण्यवत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पुण्यमस्यास्ति । मतुप् तद्धितः तकारान्तः
3 धन्य धन्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः धनं लब्धा । यत् तद्धितः अकारान्तः
3 महेच्छ महेच्छः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः महतीच्छा यस्य ॥ बहुव्रीहिः समासः अकारान्तः
4 महाशय महाशयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः महानाशयोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
5 हृदयालु हृदयालुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रशस्तं हृदयमस्य । आलुच् तद्धितः उकारान्तः
6 सुहृदय सुहृदयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शोभनं हृदयमस्य । बहुव्रीहिः समासः अकारान्तः
7 महोत्साह महोत्साहः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः महानुत्साहोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
8 महोद्यम महोद्यमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः महानुद्यमोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः