अमरकोशः


श्लोकः

उन्मादस्तून्मदिष्णुः स्यादविनीत: समुद्धतः । मत्ते शौण्डोत्कटक्षीबा: कामुके कमितानुकः ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उन्मद उन्मदः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्गतो मदो हर्षोऽस्य । तत्पुरुषः समासः अकारान्तः
2 उन्मदिष्णु उन्मदिष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उन्मदनशीलः । इष्णुच् कृत् उकारान्तः
3 अविनीत अविनीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न व्यनायि । क्त कृत् अकारान्तः
4 समुद्धत समुद्धतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समुद्धन्ति स्म । क्त कृत् अकारान्तः
5 मत्त मत्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः माद्यति । क्त कृत् अकारान्तः
6 शौण्ड शौण्डः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शुण्डायां पानागारे भवः । अण् तद्धितः अकारान्तः
7 उत्कट उत्कटः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्गतः कट आवरणमावारको वास्य । कटच् तद्धितः अकारान्तः
8 क्षीब क्षीबः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्षीबते स्म । क्तः कृत् अकारान्तः
9 कामुक कामुकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कामयते । उकञ् कृत् अकारान्तः
10 कमित्रु कमित्रुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कामयते । तृच् कृत् उकारान्तः
11 अनुक अनुकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अनुकामयते । निपातनात् अकारान्तः