अमरकोशः


श्लोकः

सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक् समौ लोलुपलोलुभौ ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सर्वान्नीन सर्वान्नीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सर्वेषामन्नानि । सर्वान्नानि भक्षयति । तद्धितः अकारान्तः
2 सर्वान्नभोजि सर्वान्नभोजिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सर्वान्नानि भोक्तुं शीलमस्य । णिनि कृत् इकारान्तः
3 गृध्नु गृध्नुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गर्धनशीलः । क्नुः कृत् उकारान्तः
4 गर्धन गर्धनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गर्धनशीलः । युच् कृत् अकारान्तः
5 लुब्ध लुब्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लुभ्यति । क्त कृत् अकारान्तः
6 अभिलाषुक अभिलाषुकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभिलष्यति । उकञ् कृत् अकारान्तः
7 तृष्णक् तृष्णक् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तृष्यति । नजिङ् कृत् ककारान्तः
8 लोलुप लोलुपः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गर्हितं लुम्पति । अच् कृत् अकारान्तः
9 लोलुभ लोलुभः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भृशं लुभ्यति । अच् कृत् अकारान्तः