अमरकोशः


श्लोकः

वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः । धृष्टे धृष्णग्वियातश्च प्रगल्भ: प्रतिभान्विते ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वश्य वश्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वशमधीनत्वं गतः । यत् कृत् अकारान्तः
2 प्रणेय प्रणेयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रकर्षेण नेतुं शक्यः । यत् कृत् अकारान्तः
3 निभृत निभृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नितरामभारि । क्त कृत् अकारान्तः
4 विनीत विनीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्यनायि । क्त कृत् अकारान्तः
5 प्रश्रित प्रश्रितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रथममश्रायि गुणैः । क्त कृत् अकारान्तः
6 धृष्ट धृष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः धृष्णोति स्म । क्त कृत् अकारान्तः
7 धृष्णज् धृष्णज् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नजिङ् कृत् जकारान्तः
8 वियात वियातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विरुद्धं यातं चेष्टितं यस्य । क्त कृत् अकारान्तः
9 प्रगल्भ प्रगल्भः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रगल्भते । अच् कृत् अकारान्तः
10 प्रतिभान्वित प्रतिभान्वितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रतिभानम् । तत्पुरुषः कृत् अकारान्तः