अधिभूर्नायको नेता प्रभुः परिवृढोऽऽधिपः । अधिकद्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः ॥ ११ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | अधिभू | अधिभू | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अधिभवति । | क्विप् | कृत् | ऊकारान्तः |
2 | नायक | नायकः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | नयति । | ण्वुल् | कृत् | अकारान्तः |
3 | नेतृ | नेतृः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | नयति । | तृच् | कृत् | ऋकारान्तः |
4 | प्रभु | प्रभुः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | प्रभवति । | डुः | कृत् | उकारान्तः |
5 | परिवृढ | परिवृढः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | परिवर्हति । | निपातनात् | अकारान्तः | |
6 | अधिप | अधिपः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अधि पाति । | कः | कृत् | अकारान्तः |
7 | अधिकर्द्धि | अधिकर्द्धिः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अधिका ऋद्धिरस्य । | बहुव्रीहिः | समासः | इकारान्तः |
8 | समृद्ध | समृद्धः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | समृध्नोति स्म । | क्त | कृत् | अकारान्तः |
9 | कुटुम्बव्यापृत | कुटुम्बव्यापृतः | पुंलिङ्गः | कुटुम्बपोषणे संसक्तः । व्याप्रियते स्म । | तत्पुरुषः | समासः | अकारान्तः |