अमरकोशः


श्लोकः

बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते । ऊरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् ॥ १०८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बुद्ध बुद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बुद्ध्यते स्म क्त कृत् अकारान्तः
2 बुधित बुधितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्त कृत् अकारान्तः
3 मनित मनितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मन्यते स्म क्त कृत् अकारान्तः
4 विदित विदितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विद्यते स्म क्त कृत् अकारान्तः
5 प्रतिपन्न प्रतिपन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रतिपद्यते स्म क्त कृत् अकारान्तः
6 अवसित अवसितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवसीयते स्म क्त कृत् अकारान्तः
7 अवगत अवगतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवगम्यते स्म क्त कृत् अकारान्तः
8 ऊरीकृत ऊरीकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ऊरी क्रियते स्म क्त कृत् अकारान्तः
9 उररीकृत उररीकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उररी क्रियते स्म क्त कृत् अकारान्तः
10 अङ्गीकृत अङ्गीकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अनङ्गमङ्गमकारि क्त कृत् अकारान्तः
11 आश्रुत आश्रुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आश्रूयते स्म क्त कृत् अकारान्तः
12 प्रतिज्ञात प्रतिज्ञातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रतिज्ञायते स्म क्त कृत् अकारान्तः