वरिवसिते वरिवस्यितमुपासितं चोपचरितं च । संतापितसंतप्तौ धूपितधूपायितौ च दूनश्च ॥ १०२ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | वरिवसित | वरिवसितः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | वरिवः कृते | क्त | कृत् | अकारान्तः |
2 | वरिवस्यित | वरिवस्यितः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | वरिवः कृते | क्त | कृत् | अकारान्तः |
3 | उपासित | उपासितः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | उपास्यते स्म | क्त | कृत् | अकारान्तः |
4 | उपचरित | उपचरितः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | उपचर्यते स्म | क्त | कृत् | अकारान्तः |
5 | संतापित | संतापितः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | संताप्यते स्म | क्त | कृत् | अकारान्तः |
6 | संतप्त | संतप्तः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | तप्यते स्म | क्त | कृत् | अकारान्तः |
7 | धूपित | धूपितः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | धूप्यते स्म | क्त | कृत् | अकारान्तः |
8 | धूपायित | धूपायितः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | धूप्यते स्म | क्त | कृत् | अकारान्तः |
9 | दून | दूनः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | दूयते स्म | क्त | कृत् | अकारान्तः |