अमरकोशः


श्लोकः

गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ । इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कृतलक्षण कृतलक्षणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृतमुच्चारितं लक्षणं नामास्य । क्त कृत् अकारान्तः
2 आहतलक्षण आहतलक्षणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आहतमभ्यस्तं लक्षणं यस्य ॥ बहुव्रीहिः समासः अकारान्तः
3 इभ्य इभ्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इभमर्हति । तद्धितः अकारान्तः
4 आढ्य आढ्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आध्यायति । कृत् अकारान्तः
5 धनिन् धनिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बहुधनमस्य । इनि तद्धितः नकारान्तः
6 स्वामिन् स्वामिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्वमस्यास्ति । निपातनात् नकारान्तः
7 ईश्वर ईश्वरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ईष्टे । वरच् कृत् अकारान्तः
8 पति पतिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पाति । डति उणादिः इकारान्तः
9 ईशितृ ईशितृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ईष्टे । तृन् कृत् ऋकारान्तः