अमरकोशः


श्लोकः

भरण्यभुक्कर्मकरः कर्मकारस्तु तत् क्रियः । अपस्नातो मृतस्नात आमिषाशी तु शौष्कुल: ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भरण्यभुज् भरण्यभुज् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भरण्यं वेतनं भुङ्के । क्विप् कृत् जकारान्तः
2 कर्मकर कर्मकरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कर्म करोति । टः कृत् अकारान्तः
3 कर्मकार कर्मकारः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कर्म करोति । अण् कृत् अकारान्तः
4 अपस्नात अपस्नातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अपकृष्टं स्नातः । तत्पुरुषः समासः अकारान्तः
5 मृतस्नात मृतस्नातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मृते स्नातः । तत्पुरुषः समासः अकारान्तः
6 आमिषाशिन् आमिषाशिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आमिषमश्नाति । णिनि कृत् नकारान्तः
7 शौष्कल शौष्कलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शुष्कली शुष्कमांसेऽपि मांसपात्रेऽपि सा मता’ । तामत्ति । अण् तद्धितः अकारान्तः