अमरकोशः


श्लोकः

कर्मक्षमोऽलङ्कर्मीणः क्रियावान् कर्मसूद्यतः । स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कर्मक्षम कर्मक्षमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कर्मसु क्षमः । तत्पुरुषः समासः अकारान्तः
2 अलङ्कर्मीण अलङ्कर्मीणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कर्मणे क्रियायै अलं समर्थः । तत्पुरुषः समासः अकारान्तः
3 क्रियावत् क्रियावत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्रियास्यास्ति । मतुप् तद्धितः तकारान्तः
4 कार्म कार्मः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अकारान्तः
5 कर्मशील कर्मशीलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कर्म शीलमस्य । बहुव्रीहिः समासः अकारान्तः
6 कर्मशूर कर्मशूरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कर्मणि शूरः । तत्पुरुषः समासः अकारान्तः
7 कर्मठ कर्मठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अठच् तद्धितः अकारान्तः